वांछित मन्त्र चुनें

क उ॒ नु ते॑ महि॒मन॑: समस्या॒स्मत्पूर्व॒ ऋष॒योऽन्त॑मापुः । यन्मा॒तरं॑ च पि॒तरं॑ च सा॒कमज॑नयथास्त॒न्व१॒॑: स्वाया॑: ॥

अंग्रेज़ी लिप्यंतरण

ka u nu te mahimanaḥ samasyāsmat pūrva ṛṣayo ntam āpuḥ | yan mātaraṁ ca pitaraṁ ca sākam ajanayathās tanvaḥ svāyāḥ ||

पद पाठ

के । ऊँ॒ इति॑ । नु । ते॒ । म॒हि॒मनः॑ । स॒म॒स्य॒ । अ॒स्मत् । पूर्वे॑ । ऋष॑यः । अन्त॑म् । आ॒पुः॒ । यत् । मा॒तर॑म् । च॒ । पि॒तर॑म् । च॒ । सा॒कम् । अज॑नयथाः । त॒न्वः॑ । स्वायाः॑ ॥ १०.५४.३

ऋग्वेद » मण्डल:10» सूक्त:54» मन्त्र:3 | अष्टक:8» अध्याय:1» वर्ग:15» मन्त्र:3 | मण्डल:10» अनुवाक:4» मन्त्र:3


बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (ते समस्य महिमनः) तेरे सब महत्त्व के (अन्तं के-उ-नु-अस्मत्-पूर्वे-ऋषयः-आपुः) पार को कौन हमसे पूर्ववर्ती ज्ञानी-तत्त्वदर्शी प्राप्त कर सके हैं ? अर्थात् कोई नहीं, (स्वायाः-तन्वः) स्व व्यापनशक्ति से या अव्यक्त प्रकृति से (यत्-मातरं च पितरं च साकम्-अजनयथाः) जो पृथिवी और द्युलोक को साथ ही तूने उत्पन्न किया है ॥३॥
भावार्थभाषाः - परमात्मा के महत्त्व का पूर्णरूप से कोई पार नहीं पा सकता कि उसने अपनी व्यापक शक्ति से तथा अव्यक्त प्रकृति से द्युलोक और पृथिवीलोक को-प्रकाशक और प्रकाश्य लोकों को कैसे बनाया है ! ॥३॥
बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (ते समस्य महिमनः) तव सर्वस्य महिम्नः-महत्त्वस्य ‘उपधाया अकारस्य लोपाभावश्छान्दसः’ (अन्तं के-उ-नु अस्मत्-पूर्वे-ऋषयः-आपुः) पारं के हि वितर्कनी-यमेतत् ‘नु वितर्के’ [अव्ययार्थनिबन्धनम्) अस्मत्तः पूर्वे द्रष्टारः ज्ञानिनस्तत्त्वदर्शकाः प्राप्नुयुः, न केऽपीत्यर्थः (स्वायाः तन्वः) स्वव्यापनशक्तितोऽव्यक्त- प्रकृतितो वा (यत्-मातरं च पितरं च साकम्-अजनयथाः) यत् पृथिवीं च दिवं च “द्यौर्मे पिता माता…पृथिवी महीयम्” [ऋ० १।१६४।३३] साकं सहैव त्वमुत्पादयसि ॥३॥